श्रीदुर्गाध्यानाष्टकम्
***************
(१)
चं चं चं चन्द्रचूडा चरणरणरणा
चातुरी चारुनेत्रा
जं जं जं जाल्मजैत्री जनगणजयदा
ज्वालिनी योगजन्मा ।
डं डं डं डामरोक्ता डमरुडमडमा
डाकिनी दण्डदात्री
रं रं रं रक्तवर्णा रणनिकररता
रातु शं रम्यदुर्गा ।।
(२)
या देवी शशिशेखरा भयहरा
देवासु्रैर्वन्दिता
स्वर्णाढ्या कमनीयकान्तिलसिता
केयूरसंशोभिता ।
शाटी भाति कटीतटे कनकभा
यस्या गले मौक्तिकं
नित्यं तां परमेश्वरीं भगवतीं
दुर्गां भजे सर्वदाम् ॥
(३)
यां नत्वा विबुधा ब्रजन्ति समरं
हन्तुं महाराक्षसान्
सिद्धा इष्टफलाय योगिपुरुषा
योगं सदा सिद्धये ।
भक्ताः प्रेमरसं जनाश्च विभवं
बीरा बलं प्राप्तये
नित्यं तां परमेश्वरीं भगवतीं
दुर्गां भजे सर्वदाम् ॥
(४)
यस्याः पादतले नमन्ति सकला
लोका महीमण्डले
लब्धुं दिव्यफलं धनानि कुशलं
सौभाग्यराशिं सदा ।
यत्कीर्त्तिं भुवनत्रये विहरते
यन्नाम शक्तिप्रदं
नित्यं तां परमेश्वरीं भगवतीं
दुर्गां भजे सर्वदाम् ॥
(५)
या माता भवतारिणी शशीमुखी
विश्वात्मिका भार्गवी
दैत्यध्वंसकरी प्रमाददलिनी
यापि स्वयं पार्वती ।
यस्याः पादयुगे ब्रजन्ति शरणं
लब्धुं कृपां साधवो
नित्यं तां परमेश्वरीं भगवतीं
दुर्गां भजे सर्वदाम् ॥
(६)
भक्तानां प्रियदायिनी प्रियमयी
विद्युत्प्रभाशोभिता
हस्तैः शूलगदासिवारिजधरा
भालेपि नेत्रान्विता ।
शीर्षांशे शशिलाञ्छना रविनिभा
लोकार्त्त संमर्द्दिनी
नित्यं तां परमेश्वरीं भगवतीं
दुर्गां भजे सर्वदाम् ॥
(७)
मुक्तादामविलम्बिनी कमलिनी
सिंहासिनी शूलिनी
शम्भुप्राण-विमोहिनी त्रिनयना
संतापसंहारिणी ।
प्राणत्राणपरायणी हि जननी
संसारसंपालिनी
नित्यं तां परमेश्वरीं भगवतीं
दुर्गां भजे सर्वदाम् ॥
(८)
बुद्ध्या शुम्भनिशुम्भदैत्यशमनी
या शत्रुवंशार्द्दिनी
शक्त्या या महिषासुरप्रमथिनी
लोकार्त्तिसंघातिनी ।
प्रीत्या वैभवभक्तिशक्तिकुशलं
भक्ताय दत्ते च या
नित्यं तां परमेश्वरीं भगवतीं
दुर्गां भजे सर्वदाम् ॥
(प्रणेता पं.श्रीव्रजकिशोरत्रिपाठी)
Reposting it from sathvishayam google group.
Courtesy:K.N.RAMESH