Sri Jagadguru Satya Chandrashekarendra Saraswathi Ashtakam
- Thanjavur Paramapara
- 2 days ago
- 1 min read
श्री-जगद्गुरु-सत्यचन्द्रशेखरेन्द्र-सरस्वत्यष्टकम्
श्रीकामकोटिपीठस्य
शोभां वर्धयितुं भुवि ।
अवतीर्णं गुरुं वन्दे
सत्यश्रीचन्द्रशेखरम् ॥१॥
मोक्षपुरीति प्रथितायां महिमान्वितायां काञ्चीपुर्यां साक्षात् परमेश्वरावतारैः श्रीमदादिशङ्करभगवत्पादैः अष्टाधिक-पञ्चशतोत्तर-द्विसहस्र (२५०८) वर्षेभ्यः प्राक् संस्थापितस्य, अद्यावधि अविच्छिन्नपरम्परया प्रकाशमानस्य श्रीकामकोटिपीठस्य महतीं कान्तिम् आत्मज्ञानज्योतिश्च अखिलप्रपञ्चे भूयोऽपि विस्तारयितुं, सनातनधर्मं परिरक्षितुञ्च अस्यां पुण्यभारतभुवि महाज्ञानभास्कररूपेण प्रादुर्भूतं जगद्गुरुं श्री-सत्यचन्द्रशेखरेन्द्र-सरस्वती-स्वामिनम् अहं वन्दे।
स्वगुरौ परमां भक्तिं
वहन्तं हृदये सदा ।
संसारतापहन्तारं
सत्यश्रीचन्द्रशेखरम् ॥२॥
भगवत्पादप्रभृति-अविच्छिन्न-कामकोटि-गुरु-परम्परायां विराजमानेषु भगवत्पादस्वरूपेषु स्वसद्गुरुषु सर्वदा अमितां परमां च भक्तिं स्वहृदयकमले निरन्तरं वहन्तम्, अज्ञानजनित-जननमरणरूप-संसारदुःखानि, आध्यात्मिक-आधिभौतिक-आधिदैविकरूप-तापत्रयञ्च स्वकरुणाकटाक्षेण समूलम् उन्मूलयन्तं श्री-सत्यचन्द्रशेखरेन्द्र-सरस्वती-स्वामिनम् अहं वन्दे।
त्यक्त्वा सर्वैषणाः सम्यक्
तुर्याश्रममुपाश्रितम् ।
तपोनिधिं दयासिन्धुं
सत्यश्रीचन्द्रशेखरम् ॥३॥
उपनिषत्सु उक्ताः पुत्रैषणा-वित्तैषणा-लोकैषणारूपाः तिस्रः एषणाः (बन्धनानि) सम्यक् त्यक्त्वा, सनातनधर्मस्य आश्रमधर्मस्य शिखरभूतं तुरीयाश्रमं (सन्न्यासाश्रमं) विधिवत् परिगृहीतवन्तम्, आत्मविचाररूपं तप एव स्वकीयां महानिधिं मन्वानं, भक्तेषु अपारकरुणासागररूपेण विलसन्तं श्री-सत्यचन्द्रशेखरेन्द्र-सरस्वती-स्वामिनम् अहं वन्दे।
चन्द्रमौलीश्वरं साम्बं
पूजयन्तं जगत्कृते ।
चराचरजगद्वन्द्यं
सत्यश्रीचन्द्रशेखरम् ॥४॥
श्रीमदादिशङ्करभगवत्पादैः कैलासात् समानीतेषु योग-भोग-वर-सिद्धि-मुक्त्याख्येषु पञ्चस्फटिकलिङ्गेषु काञ्च्यां प्रतिष्ठापितं, महात्रिपुरसुन्दरीसमेतं योगलिङ्गाख्यं 'श्रीचन्द्रमौलीश्वरम्' अखिललोकक्षेमार्थं स्वकरकमलाभ्याम् एव प्रत्यहम् त्रिकालं निवातनिष्कम्प-दीपशिखा इव निष्कम्पगात्रेण एकाग्रचित्तेन ब्रह्मानन्दलयेन च पूजाम् आचरन्तं, चराचरात्मक-सकलप्रपञ्चेन वन्दनीयं श्री-सत्यचन्द्रशेखरेन्द्र-सरस्वती-स्वामिनम् अहं वन्दे।
द्रष्टारं समभावेन
मैत्र्या सर्वजनप्रियम् ।
दान्तं वेदान्ततत्त्वज्ञं
सत्यश्रीचन्द्रशेखरम् ॥५॥
विश्वस्मिन् विद्यमानान् सर्वप्राणिनः भेदरहित-समदृष्ट्या पश्यन्तं, स्वकीयानन्त-मैत्रीभावेन (स्नेहकरुणामय-प्रेम्णा) सर्वजनानाम् अतीव प्रियकरं, इन्द्रियाणि सर्वथा विजित्य दान्तस्वभावं प्राप्तं, वेदान्तानां गूढतात्पर्याणि करतलामलकवत् जानन्तं श्री-सत्यचन्द्रशेखरेन्द्र-सरस्वती-स्वामिनम् अहं वन्दे।
शेवधिं सर्वविद्यानां
श्रुतिस्मृतिविशारदम् ।
श्रेयोमार्गोपदेष्टारं
सत्यश्रीचन्द्रशेखरम् ॥६॥
सकलविद्यानां महानिधिरूपेण विराजन्तं, श्रुतिरूपवेदेषु स्मृतिरूपधर्मशास्त्रेषु च पारङ्गतं महानिपुणम्, जीवानाम् उद्धारार्थं परमोत्कृष्टं मोक्षमार्गं (श्रेयः) भक्तेभ्यः उपदिशन्तं मार्गदर्शकं जगद्गुरुं श्री-सत्यचन्द्रशेखरेन्द्र-सरस्वती-स्वामिनम् अहं वन्दे।
खनिं सद्गुणरत्नानां
खण्डिताशेषसंशयम् ।
खेदविच्छेदकं नित्यं
सत्यश्रीचन्द्रशेखरम् ॥७॥
सद्गुणरूपाणां अमूल्यनवरत्नानां महाखनिं (उत्पत्तिस्थानम्), शिष्याणां मनसि उत्पद्यमानान् निखिलसंशयान् छित्त्वा ज्ञानप्रदातारम्, आश्रितानां भक्तानां संसारदुःखानि नित्यं वितरन्तं विच्छेदयन्तं श्री-सत्यचन्द्रशेखरेन्द्र-सरस्वती-स्वामिनम् अहं वन्दे।
रम्यं शान्तमुखाम्भोजं
दिव्यतेजोविराजितम् ।
रञ्जनं भक्तनेत्राणां
सत्यश्रीचन्द्रशेखरम् ॥८॥
रमणीयं द्रष्टॄणां चित्ताकर्षकम् अतीव सुन्दरं महाशान्तियुक्तम् अरविन्दसदृशं मुखमण्डलं दधानं, तस्मिन् मुखकमले दिव्यतेजसा विराजमानं, दर्शनाकाङ्क्षिणां भक्तानां नेत्रेभ्यः ब्रह्मानन्दं पूर्णतृप्तिञ्च नित्यं श्री-सत्यचन्द्रशेखरेन्द्र-सरस्वती-स्वामिनम् अहं वन्दे।
॥ इति श्रीकाञ्चीकामकोटीश्वरकृपापात्रेण मध्यार्जुनक्षेत्रवासिना निधीश्वरश्रौतिना विरचितं श्री-जगद्गुरु-सत्यचन्द्रशेखरेन्द्र-सरस्वत्यष्टकम् ॥
Comments